मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६, ऋक् ५

संहिता

अध॑ जि॒ह्वा पा॑पतीति॒ प्र वृष्णो॑ गोषु॒युधो॒ नाशनि॑ः सृजा॒ना ।
शूर॑स्येव॒ प्रसि॑तिः क्षा॒तिर॒ग्नेर्दु॒र्वर्तु॑र्भी॒मो द॑यते॒ वना॑नि ॥

पदपाठः

अध॑ । जि॒ह्वा । पा॒प॒ती॒ति॒ । प्र । वृष्णः॑ । गो॒षु॒ऽयुधः॑ । न । अ॒शनिः॑ । सृ॒जा॒ना ।
शूर॑स्यऽइव । प्रऽसि॑तिः । क्षा॒तिः । अ॒ग्नेः । दुः॒ऽवर्तुः॑ । भी॒मः । द॒य॒ते॒ । वना॑नि ॥

सायणभाष्यम्

अधापिच वृष्णोवर्षितुरग्नेर्जिह्वा ज्वाला प्रपापतीति प्रकर्षेणपुनःपुनः पततिगच्छति तत्रदृष्टान्तःगोषुयुधोनाशनिःसृजाना असुरप्रहृ- तासुगोषुयुध्यन्निन्द्रोगोषुयुत् तस्मात्सृज्यमाना अशनिर्वज्रइव तथाशूरस्येव शौर्योपेतस्यनरस्य प्रसितिः प्रबन्धनंयथान्यैः दुः सहमेवमग्नेः क्षातिर्ज्वालासोदुमशक्येत्यर्थः क्षीयन्ते दह्यन्तेस्यामोषधिवनस्पतयइति क्षायतेःअधिकरणेक्तिन् अपिचदुर्वर्तुर्दुर्वारः अन्यैर्वारयितुमश- क्योभीमोभयङ्करोग्निः वनानि दयते दहति दयतिरत्रदहतिकर्मा ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः