मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ८, ऋक् ३

संहिता

व्य॑स्तभ्ना॒द्रोद॑सी मि॒त्रो अद्भु॑तोऽन्त॒र्वाव॑दकृणो॒ज्ज्योति॑षा॒ तमः॑ ।
वि चर्म॑णीव धि॒षणे॑ अवर्तयद्वैश्वान॒रो विश्व॑मधत्त॒ वृष्ण्य॑म् ॥

पदपाठः

वि । अ॒स्त॒भ्ना॒त् । रोद॑सी॒ इति॑ । मि॒त्रः । अद्भु॑तः । अ॒न्तः॒ऽवाव॑त् । अ॒कृ॒णो॒त् । ज्योति॑षा । तमः॑ ।
वि । चर्म॑णी इ॒वेति॒ चर्म॑णीऽइव । धि॒षणे॒ इति॑ । अ॒व॒र्त॒य॒त् । वै॒श्वा॒न॒रः । विश्व॑म् । अ॒ध॒त्त॒ । वृष्ण्य॑म् ॥

सायणभाष्यम्

मित्रोमित्रभूतः सर्वेषांअद्भुतोमहानाश्चर्यभूतोवा वैश्वानरोग्निः रोदसी द्यावापृथिव्यौ व्यस्तभ्रात् विशेषेणस्तम्भितवान् यथा अधोनपततः तथा स्वकीयदेशेस्थापितवानित्यर्थः तथा ज्योतिषा तेजसा तमः अंधकारंच अंतर्वावत् अन्तर्हितं तिरोहितमकृणोदकरोत् वावदिति वातेर्गतिकर्मणोयङ्लुगन्तस्यरूपं अपिच धिषणे धारयित्र्यौ द्यावापृथिव्यौ चर्मणीइव यथा पशोर्विशसिताद्वेचर्मणीशोषणार्थं- प्रसारयतितथाव्यावर्तयत् विवृते विस्तृते अकरोत् किंबहुना वैश्वानरोयमग्निः विश्वं सर्वं वृष्णयंवीर्यमधत्त धत्ते धारयति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०