मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ८, ऋक् ४

संहिता

अ॒पामु॒पस्थे॑ महि॒षा अ॑गृभ्णत॒ विशो॒ राजा॑न॒मुप॑ तस्थुरृ॒ग्मिय॑म् ।
आ दू॒तो अ॒ग्निम॑भरद्वि॒वस्व॑तो वैश्वान॒रं मा॑त॒रिश्वा॑ परा॒वतः॑ ॥

पदपाठः

अ॒पाम् । उ॒पऽस्थे॑ । म॒हि॒षाः । अ॒गृ॒भ्ण॒त॒ । विशः॑ । राजा॑नम् । उप॑ । त॒स्थुः॒ । ऋ॒ग्मिय॑म् ।
आ । दू॒तः । अ॒ग्निम् । अ॒भ॒र॒त् । वि॒वस्व॑तः । वै॒श्वा॒न॒रम् । मा॒त॒रिश्वा॑ । प॒रा॒ऽवतः॑ ॥

सायणभाष्यम्

अपइत्यन्तरिक्षनाम अपामन्तरिक्षस्य उपस्थे उपस्थाने मध्ये महिषाः महन्नामैतत् महान्तोमरुतः अगृभ्णत अगृह्णन् इमंवैश्वानंरवैद्यु- तात्मनावर्तमानमजानन्नित्यर्थः गृहीत्वाच विशः प्रजाः राजानं स्वामिनं ऋग्मियमर्चनीयं उपतस्थुरस्तुवन् अपिचेमंवैश्वानरं अग्निं पुरा सूर्यसमीपे विद्यमानं दूतः वेगवान् देवानांदूतोवा मातरिश्वा वायुः परावतोदूरदेशात् विवस्वतआदित्यात् आभरत् इमंलोकंप्रत्याजहार ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०