मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ८, ऋक् ६

संहिता

अ॒स्माक॑मग्ने म॒घव॑त्सु धार॒याना॑मि क्ष॒त्रम॒जरं॑ सु॒वीर्य॑म् ।
व॒यं ज॑येम श॒तिनं॑ सह॒स्रिणं॒ वैश्वा॑नर॒ वाज॑मग्ने॒ तवो॒तिभि॑ः ॥

पदपाठः

अ॒स्माक॑म् । अ॒ग्ने॒ । म॒घव॑त्ऽसु । धा॒र॒य॒ । अना॑मि । क्ष॒त्रम् । अ॒जर॑म् । सु॒ऽवीर्य॑म् ।
व॒यम् । ज॒ये॒म॒ । श॒तिन॑म् । स॒ह॒स्रिण॑म् । वैश्वा॑नर । वाज॑म् । अ॒ग्ने॒ । तव॑ । ऊ॒तिऽभिः॑ ॥

सायणभाष्यम्

हेअग्ने अस्माकं सप्तम्यर्थेषष्ठी अस्मासु मघवत्सु हविर्लक्षणेनधनेनयुक्तेषु क्षत्रं धनं धारय स्थापय कीदृशं अनामि अनमनीयमनपहार्य- मजरंजरारहितमनश्वरं सुवीर्यं शोभनवीर्योपेतं किंच हेवैश्वानराग्ने तवोतिभिः त्वत्संबन्धिभीरक्षणैः वयं शतिनं शतसंख्यायुक्तं शत- पुरुषयुक्तंवा तथा सहस्रिणं वाजमन्नं जयेम लभेमहि ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०