मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ८, ऋक् ७

संहिता

अद॑ब्धेभि॒स्तव॑ गो॒पाभि॑रिष्टे॒ऽस्माकं॑ पाहि त्रिषधस्थ सू॒रीन् ।
रक्षा॑ च नो द॒दुषां॒ शर्धो॑ अग्ने॒ वैश्वा॑नर॒ प्र च॑ तारी॒ः स्तवा॑नः ॥

पदपाठः

अद॑ब्धेभिः । तव॑ । गो॒पाभिः॑ । इ॒ष्टे॒ । अ॒स्माक॑म् । पा॒हि॒ । त्रि॒ऽस॒ध॒स्थ॒ । सू॒रीन् ।
रक्ष॑ । च॒ । नः॒ । द॒दुषा॑म् । शर्धः॑ । अ॒ग्ने॒ । वैश्वा॑नर । प्र । च॒ । ता॒रीः॒ । स्तवा॑नः ॥

सायणभाष्यम्

हेइष्टे यष्टव्य एषणीयवा त्रिषधस्थ त्रिषुलोकेषुसहावस्थायिन् यद्वा आहवनीयादिषुत्रिष्वायतनेषुयष्टव्यैर्देवैः सहावतिष्ठमानाग्ने अद- ब्धेभिः केनाप्यहिंसितैः तवत्वदीयैर्गोपाभिः गोपकैः रक्षकैस्तेजोभिः अस्माकं सूरीन् अस्मदीयान् स्तोतॄन् पाहि रक्ष हेवैश्वानराग्ने ददुषां हवींषिदत्तवतां नोस्माकं शर्धोबलं रक्षच स्तवान स्तूयमानस्त्वं प्रचतारीः प्रवर्धयच ॥ ७ ॥

अहश्चेतिसप्तर्चंनवमंसूक्तं भरद्वाजस्यार्षं वैश्वानराग्निदेवताकं अनुक्रान्तंच अहश्चेति । व्यूह्ळेदशरात्रेषष्ठेहनिआग्निमारुतशस्त्रेवैश्वानर- निविद्धानमिदं सूत्र्यतेहि-अहश्चकृष्णंमध्वो वोनामेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०