मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ९, ऋक् १

संहिता

अह॑श्च कृ॒ष्णमह॒रर्जु॑नं च॒ वि व॑र्तेते॒ रज॑सी वे॒द्याभि॑ः ।
वै॒श्वा॒न॒रो जाय॑मानो॒ न राजावा॑तिर॒ज्ज्योति॑षा॒ग्निस्तमां॑सि ॥

पदपाठः

अहः॑ । च॒ । कृ॒ष्णम् । अहः॑ । अर्जु॑नम् । च॒ । वि । व॒र्ते॒ते॒ इति॑ । रज॑सी॒ इति॑ । वे॒द्याभिः॑ ।
वै॒श्वा॒न॒रः । जाय॑मानः । न । राजा॑ । अव॑ । अ॒ति॒र॒त् । ज्योति॑षा । अ॒ग्निः । तमां॑सि ॥

सायणभाष्यम्

आहरतिपुरुषोस्मिन्कर्माणीत्यहः कृष्णं कृष्णवर्णं एतत्सामानाधिकरण्यादहः शब्दोरात्रिवचनः तमसाकृष्णवर्णारात्रिश्च अर्जुनंच सौ- रेणतेजसा शुक्लवर्णमहोदिवसश्चरजसी स्वस्वभासा सर्वंजगद्रंजयन्तौ वेद्याभिः वेदितव्याभिः अनुकूलतयाज्ञातव्याभिः स्वप्रवृत्तिभिः विवर्तेते विविधंपर्यावर्तेते यद्वा रजसी द्यावापृथिव्यौ उपलक्षणमेतत् लोकत्रयं प्रत्यावर्तेते एतच्चवैश्वानराग्नेराज्ञयेतिशेषः सहिदेवतात्वे- नात्रप्रतिपाद्यः सचवैश्वानरोग्निः जायमानोनराजा प्रादुर्भवन् प्रवर्धमानोराजेव ज्योतिषा तेजसा तमांसि अवातिरत् अवतिरतिर्वधकर्मा अवतिरति विनाशयति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११