मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ९, ऋक् ४

संहिता

अ॒यं होता॑ प्रथ॒मः पश्य॑ते॒ममि॒दं ज्योति॑र॒मृतं॒ मर्त्ये॑षु ।
अ॒यं स ज॑ज्ञे ध्रु॒व आ निष॒त्तोऽम॑र्त्यस्त॒न्वा॒३॒॑ वर्ध॑मानः ॥

पदपाठः

अ॒यम् । होता॑ । प्र॒थ॒मः । पश्य॑त । इ॒मम् । इ॒दम् । ज्योतिः॑ । अ॒मृत॑म् । मर्त्ये॑षु ।
अ॒यम् । सः । ज॒ज्ञे॒ । ध्रु॒वः । आ । निऽस॑त्तः । अम॑र्त्यः । त॒न्वा॑ । वर्ध॑मानः ॥

सायणभाष्यम्

अयंवैश्वानरोग्निः प्रथमआद्योहोता मानुषोहिहोताद्वितीयः हेमनुष्याः तं इमं पश्यत भजतेत्यर्थः मर्त्येषु मरणस्वभावेषुशरीरेषु अमृतं मरणरहितं इदं वैश्वानराख्यंज्योतिः जाठररूपेणवर्ततइत्यर्थः अपिच सोयमग्निः ध्रुवोनिश्चलः आसमन्तान्निषत्तोनिषण्णः सर्वव्यापी अतएवामर्त्यः मरणरहितोपि तन्वा शरीरेण संबन्धात् जज्ञे जायते वर्धमानश्चभवतीत्युपचर्यते ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११