मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ११, ऋक् २

संहिता

त्वं होता॑ म॒न्द्रत॑मो नो अ॒ध्रुग॒न्तर्दे॒वो वि॒दथा॒ मर्त्ये॑षु ।
पा॒व॒कया॑ जु॒ह्वा॒३॒॑ वह्नि॑रा॒साग्ने॒ यज॑स्व त॒न्वं१॒॑ तव॒ स्वाम् ॥

पदपाठः

त्वम् । होता॑ । म॒न्द्रऽत॑मः । नः॒ । अ॒ध्रुक् । अ॒न्तः । दे॒वः । वि॒दथा॑ । मर्ते॑षु ।
पा॒व॒कया॑ । जु॒ह्वा॑ । वह्निः॑ । आ॒सा । अग्ने॑ । यज॑स्व । त॒न्व॑म् । तव॑ । स्वाम् ॥

सायणभाष्यम्

हेअग्ने त्वं मर्त्येषु मनुष्येषु अन्तर्मध्ये वर्तमाने विदथा विदथेयज्ञे होता देवानमाह्वाता भवसि कीदृशस्त्वं मन्द्रतमः स्तुत्यतमः नो- स्माकमध्रुक् अद्रोग्धा अस्मदर्थंद्रोहरहितोवा सर्वदामित्रभूतइत्यर्थः देवोदानादिगुणयुक्तः अपिच हेअग्ने जिह्वा हूयन्तेस्यामाहुतयइति जुहूर्ज्वाला तया पावकयाशोधयित्र्या आसा आस्येन देवानामास्यभूतया वह्निर्हविषांवोढात्वं तव स्वां स्वभूतां स्विष्टकृदाख्यां तन्वं तनूं यजस्व ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३