मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ११, ऋक् ४

संहिता

अदि॑द्युत॒त्स्वपा॑को वि॒भावाग्ने॒ यज॑स्व॒ रोद॑सी उरू॒ची ।
आ॒युं न यं नम॑सा रा॒तह॑व्या अ॒ञ्जन्ति॑ सुप्र॒यसं॒ पञ्च॒ जना॑ः ॥

पदपाठः

अदि॑द्युतत् । सु । अपा॑कः । वि॒भाऽवा॑ । अग्ने॑ । यज॑स्व । रोद॑सी॒ इति॑ । उ॒रू॒ची इति॑ ।
आ॒युम् । न । यम् । नम॑सा । रा॒तऽह॑व्याः । अ॒ञ्जन्ति॑ । सु॒ऽप्र॒यस॑म् । पञ्च॑ । जनाः॑ ॥

सायणभाष्यम्

अयमग्निः सुअदिद्युतत् सुष्ठुद्योतते दीप्यते कथंभूतः अपाकः पाकःपक्तव्यप्रज्ञोमूर्खः तद्विलक्षणोऽपाकः विभावा दीप्तिमान् शेषः प्रत्यक्षकृतः हेअग्ने सत्वं उरूची उरुविस्तीर्णंअञ्चत्यौ विस्तृते रोदसी द्यावापृथिव्यौ यजस्व ह्विषापूजय आयुंन मनुष्यमतिथिमिव यं पञ्चजनाःमनुष्याः ऋत्विग्यजमानलक्षणाः रतहव्याः द्त्तहविष्काःसन्तः सुप्रयसं शोभनहविर्लक्षणं यमग्निं नमसान्नेनहविर्लक्षणेन अञ्जन्ति सिञ्चन्तितर्पयन्ति सत्वं यजस्वेत्यन्वयः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३