मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १२, ऋक् ५

संहिता

अध॑ स्मास्य पनयन्ति॒ भासो॒ वृथा॒ यत्तक्ष॑दनु॒याति॑ पृ॒थ्वीम् ।
स॒द्यो यः स्य॒न्द्रो विषि॑तो॒ धवी॑यानृ॒णो न ता॒युरति॒ धन्वा॑ राट् ॥

पदपाठः

अध॑ । स्म॒ । अ॒स्य॒ । प॒न॒य॒न्ति॒ । भासः॑ । वृथा॑ । यत् । तक्ष॑त् । अ॒नु॒ऽयाति॑ । पृ॒थ्वीम् ।
स॒द्यः । यः । स्य॒न्द्रः । विऽसि॑तः । धवी॑यान् । ऋ॒णः । न । ता॒युः । अति॑ । धन्व॑ । राट् ॥

सायणभाष्यम्

अधास्मिन् लोके स्मेतिपूरकः अस्याग्नेर्भासोरश्मीन् पनयन्ति स्तोतारःस्तुवन्ति यद्यदा वृथा अनायासेन तक्षत् तक्षन् तनूकुर्वन् वना- नि सम्यक् दहन् पृथ्वीं विस्तीर्णामरण्यभुवमनुयात्यनुगच्छति तदानींपनयन्तीत्यन्वयः योग्निः स्पन्द्रः स्पन्दनवान् विषितोविमुक्तःप्रति- बन्धरहितः अतएव सद्यः शीघ्रंधवीयान् गन्तृतमोभवति कइव ऋणोनतायुः ऋणोतिर्गतिकर्मा तायुरितिस्तेननाम यथास्तेनःशीघ्रंगन्ता- भवति तद्वत् सोयमग्निःधन्वमरुभूमिमतिक्रम्य राट् राजते यद्वा धन्वन्त्यस्मादापइतिधन्वान्तरिक्षं अतिशयेनान्तरिक्षमाक्रम्यराजते ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४