मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १४, ऋक् १

संहिता

अ॒ग्ना यो मर्त्यो॒ दुवो॒ धियं॑ जु॒जोष॑ धी॒तिभि॑ः ।
भस॒न्नु ष प्र पू॒र्व्य इषं॑ वुरी॒ताव॑से ॥

पदपाठः

अ॒ग्ना । यः । मर्त्यः॑ । दुवः॑ । धिय॑म् । जु॒जोष॑ । धी॒तिऽभिः॑ ।
भस॑त् । नु । सः । प्र । पू॒र्व्यः । इष॑म् । वु॒री॒त॒ । अव॑से ॥

सायणभाष्यम्

योमर्त्योमनुष्यः अग्ना अग्नौ अग्निविषयं दुवः परिचरणं धियंकर्मच यज्ञादिलक्षणं धीतिभिः स्तुतिभिःसार्धं जुजोष सेवतेआचरति समर्त्यः पूर्व्यः पूर्वेषांमुख्यःसन् नु क्षिप्रं प्रभसत् प्रभासेत प्रकृष्टप्रकाशवान् भवेत् अवसे पुत्रादीनांरक्षणार्थं इषमन्नंच वुरीत वृणीत संभजेत शत्रुसकाशाल्लभेतेत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६