मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १४, ऋक् ४

संहिता

अ॒ग्निर॒प्सामृ॑ती॒षहं॑ वी॒रं द॑दाति॒ सत्प॑तिम् ।
यस्य॒ त्रस॑न्ति॒ शव॑सः सं॒चक्षि॒ शत्र॑वो भि॒या ॥

पदपाठः

अ॒ग्निः । अ॒प्साम् । ऋ॒ति॒ऽसह॑म् । वी॒रम् । द॒दा॒ति॒ । सत्ऽप॑तिम् ।
यस्य॑ । त्रस॑न्ति । शव॑सः । स॒म्ऽचक्षि॑ । शत्र॑वः । भि॒या ॥

सायणभाष्यम्

अयमग्निः वीरंपुत्रं ददाति स्तोतृभ्यः प्रयच्छति कीदृशंपुत्रंअप्सां अपामाप्तव्यानांकर्मणां सनितारं संभक्तारं ऋतीषहं ऋतीनां अरा- तीनां सोढारं अभिभवितारं सत्पतिं सतांकर्मणांपालयितारं यस्यवीरस्य संचक्षि संदर्शनेसति शवसोबलात् भियाभीत्या शत्रवस्त्रसन्ति उद्विजन्ते तंवीरमित्यन्वयः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६