मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १४, ऋक् ५

संहिता

अ॒ग्निर्हि वि॒द्मना॑ नि॒दो दे॒वो मर्त॑मुरु॒ष्यति॑ ।
स॒हावा॒ यस्यावृ॑तो र॒यिर्वाजे॒ष्ववृ॑तः ॥

पदपाठः

अ॒ग्निः । हि । वि॒द्मना॑ । नि॒दः । दे॒वः । मर्त॑म् । उ॒रु॒ष्यति॑ ।
स॒हऽवा॑ । यस्य॑ । अवृ॑तः । र॒यिः । वाजे॑षु । अवृ॑तः ॥

सायणभाष्यम्

सहावा सहोबलंतद्वान् देवोदानादिगुणयुक्तोग्निः विद्मना ज्ञानेनयुक्तःसन् तं मर्तं म्नुष्यं यजमानं निदोनिन्दकात् उरुष्यति रक्षति ही- तिपूरकः यस्यमर्तस्य रयिः हविर्लक्षणंधनं अवृतः रक्षःप्रभूतिभिरनाच्छादितं वाजेषु यज्ञेषु अवृतः अन्यैर्यजमानैरसंभक्तं तं हविष्मन्तं यजमानं उरुष्यतीत्यन्वयः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६