मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १५, ऋक् १३

संहिता

अ॒ग्निर्होता॑ गृ॒हप॑ति॒ः स राजा॒ विश्वा॑ वेद॒ जनि॑मा जा॒तवे॑दाः ।
दे॒वाना॑मु॒त यो मर्त्या॑नां॒ यजि॑ष्ठ॒ः स प्र य॑जतामृ॒तावा॑ ॥

पदपाठः

अ॒ग्निः । होता॑ । गृ॒हऽप॑तिः । सः । राजा॑ । विश्वा॑ । वे॒द॒ । जनि॑म । जा॒तऽवे॑दाः ।
दे॒वाना॑म् । उ॒त । यः । मर्त्या॑नाम् । यजि॑ष्ठः । सः । प्र । य॒ज॒ता॒म् । ऋ॒तऽवा॑ ॥

सायणभाष्यम्

होता देवानामाह्वाता राजा राजमानः सोग्निः गृहपतिः गृहाणांपतिरधिपतिर्भवति तथा विश्वा विश्वानिसर्वाणि जनिम जन्मानि जन्मवन्ति भूतजातानि जातवेदाः जातप्रज्ञःसन् वेद वेत्तिजानाति योग्निःदेवानामिन्द्रादीनां उतापिच मर्त्यानांमनुष्याणांचमध्ये यजिष्ठः अतिशयेनयष्टाभवति ऋतावा ऋतंसत्यंयज्ञोवातद्वान् सोग्निः प्रयजतां प्रकर्षेणदेवान्यजत् ॥ १३ ॥ अग्नेयदद्येतिदर्शपूर्णमासयोःस्विष्टकृतोयाज्या सूत्रितंच—अग्नेयदद्यविशोअध्वरस्यहोतरित्यनवानंयजतीति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९