मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १५, ऋक् १६

संहिता

अग्ने॒ विश्वे॑भिः स्वनीक दे॒वैरूर्णा॑वन्तं प्रथ॒मः सी॑द॒ योनि॑म् ।
कु॒ला॒यिनं॑ घृ॒तव॑न्तं सवि॒त्रे य॒ज्ञं न॑य॒ यज॑मानाय सा॒धु ॥

पदपाठः

अग्ने॑ । विश्वे॑भिः । सु॒ऽअ॒नी॒क॒ । दे॒वैः । ऊर्णा॑ऽवन्तम् । प्र॒थ॒मः । सी॒द॒ । योनि॑म् ।
कु॒ला॒यिन॑म् । घृ॒तऽव॑न्तम् । स॒वि॒त्रे । य॒ज्ञम् । न॒य॒ । यज॑मानाय । सा॒धु ॥

सायणभाष्यम्

हेस्वनीक सुज्वालाग्ने विश्वेभिः विश्वैः सर्वैर्देवैःसह ऊर्णावन्तं ऊर्णास्तुकावन्तं योनिं उत्तरवेदिलक्षणंस्थानं प्रथमः सर्वेषुदेवेषुमुख्यस्त्वं सीद उपविश कीदृशंयोनिं कुलायिनं कुलायोनीडं तत्सदृशं गुग्गुल्वादिसंभरणोपतं तथाचश्रूयते—कुलायमिवह्येतद्यज्ञेक्रियतेयत्पैतुदार- वाः परिधयोगुग्गुलूर्णास्तुकाःसुगन्धितेजनानीति । घृतवन्तं व्याघारणाज्ययुक्तं एवमुत्तरवेद्यांनिषण्णस्त्वं सवित्रे हविषांप्रेरयित्रेयजमा- नाय षष्ठ्यर्थेचतुर्थ्येषा ईदृशस्ययजमानस्य यज्ञं साधु आर्जवेननय देवान् प्रापय ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०