मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १५, ऋक् १७

संहिता

इ॒ममु॒ त्यम॑थर्व॒वद॒ग्निं म॑न्थन्ति वे॒धसः॑ ।
यम॑ङ्कू॒यन्त॒मान॑य॒न्नमू॑रं श्या॒व्या॑भ्यः ॥

पदपाठः

इ॒मम् । ऊं॒ इति॑ । त्यम् । अ॒थ॒र्व॒ऽवत् । अ॒ग्निम् । म॒न्थ॒न्ति॒ । वे॒धसः॑ ।
यम् । अ॒ङ्कु॒ऽयन्त॑म् । आ । अन॑यन् । अमू॑रम् । श्या॒व्या॑भ्यः ॥

सायणभाष्यम्

वेधसःकर्मणांविधातारऋत्विजः इमंदृश्यमानं त्यं तंपूर्वोक्तगुणमग्निं अथर्ववत् यथाअथर्वाख्यऋषिःपुराअमश्रात् तथामन्थन्ति मश्नन्ति अरण्योःसकाशात्जनयन्ति अंकूयन्तं कुत्सितमंचनंगमनंअंकु तदात्मनइच्छन्तं देवेभ्योनिर्गत्य इतस्ततः पलायमानं अमूरं अमूढं यमग्निं श्याव्याभ्यः श्यावीतिरात्रिनाम तत्रभवास्तमसःसंहतयःश्याव्याः ताभ्यः सकाशादानयन् आगमयन् तंमंथन्तीत्यन्वयः ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०