मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् ३

संहिता

वेत्था॒ हि वे॑धो॒ अध्व॑नः प॒थश्च॑ दे॒वाञ्ज॑सा ।
अग्ने॑ य॒ज्ञेषु॑ सुक्रतो ॥

पदपाठः

वेत्थ॑ । हि । वे॒धः॒ । अध्व॑नः । प॒थः । च॒ । दे॒व॒ । अञ्ज॑सा ।
अग्ने॑ । य॒ज्ञेषु॑ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ॥

सायणभाष्यम्

हेवेधः विधातः सुक्रतो शोभनकर्मन् देव दानादिगुणयुक्ताग्ने त्वं यज्ञेषु दर्शपूर्णमासादियागेषु अध्वनोमहामार्गान् पथश्चक्षुद्रमार्गांश्च अंजसा जवेन वेत्थ जानासि हियस्मादेवं तस्मात् कारणात् यज्ञमार्गाद्धृष्टंयजमानं पुनस्तंमार्गंप्रापयेत्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१