अग्न॒ आ या॑हि वी॒तये॑ गृणा॒नो ह॒व्यदा॑तये ।
नि होता॑ सत्सि ब॒र्हिषि॑ ॥
अग्ने॑ । आ । या॒हि॒ । वी॒तये॑ । गृ॒णा॒नः । ह॒व्यऽदा॑तये ।
नि । होता॑ । स॒त्सि॒ । ब॒र्हिषि॑ ॥
हेअग्ने त्वमायाहि आगच्छ किमर्थं वीतये हविषांभक्षणार्थं किंच हव्यदातये हव्यानि हवींषिदेवेभ्योदातुं गृणानः स्तूयमानस्त्वं बर्हिषि आस्तीर्णेदर्भे होतासन् निषत्सि निषीद उपविश ॥ १० ॥