मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् २८

संहिता

अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॒ यास॒द्विश्वं॒ न्य१॒॑त्रिण॑म् ।
अ॒ग्निर्नो॑ वनते र॒यिम् ॥

पदपाठः

अ॒ग्निः । ति॒ग्मेन॑ । शो॒चिषा॑ । यास॑त् । विश्व॑म् । नि । अ॒त्रिण॑म् ।
अ॒ग्निः । नः॒ । व॒न॒ते॒ । र॒यिम् ॥

सायणभाष्यम्

अयमग्निः तिग्मेन तीक्ष्णेन शोचिषा तेजसा विश्वं सर्वं अत्रिणमत्तारं राक्षसादिकं नियासन्निहन्तु अपिच नोस्मभ्यमग्निः रयिं धनं वनते ददातु ॥ २८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६