मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् ४३

संहिता

अग्ने॑ यु॒क्ष्वा हि ये तवाश्वा॑सो देव सा॒धवः॑ ।
अरं॒ वह॑न्ति म॒न्यवे॑ ॥

पदपाठः

अग्ने॑ । यु॒क्ष्व । हि । ये । तव॑ । अश्वा॑सः । दे॒व॒ । सा॒धवः॑ ।
अर॑म् । वह॑न्ति । म॒न्यवे॑ ॥

सायणभाष्यम्

हेदेव द्योतमानाग्ने तानश्वान् युक्ष्व आत्मीयेरथेयोजय ये तव त्वदीयाः साधवः साधकाः सुशीलावा अश्वासोश्वाः अरं अलंपर्याप्तं व- हन्ति किमर्थं मन्यवे मन्यतेयष्टव्यत्वेनदेवानत्रेतिमन्युर्यागस्तदर्थं तानश्वान् रथेयुक्ष्वेत्यर्थः हिखलु ॥ ४३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९