मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् ४४

संहिता

अच्छा॑ नो या॒ह्या व॑हा॒भि प्रयां॑सि वी॒तये॑ ।
आ दे॒वान्त्सोम॑पीतये ॥

पदपाठः

अच्छ॑ । नः॒ । या॒हि॒ । आ । व॒ह॒ । अ॒भि । प्रयां॑सि । वी॒तये॑ ।
आ । दे॒वान् । सोम॑ऽपीतये ॥

सायणभाष्यम्

हेअग्ने नोस्मान् अच्छाभिमुख्येनायाहि आगच्छ तथा प्रयांसि हविर्लक्षणान्यन्नान्यभिलक्ष्य देवानावह किमर्थं वीतये तेषांहविषांस्वा- दनार्थं तथा सोमपीतये सोमपानार्थंच तान् देवानावह ॥ ४४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९