मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् ४८

संहिता

अ॒ग्निं दे॒वासो॑ अग्रि॒यमि॒न्धते॑ वृत्र॒हन्त॑मम् ।
येना॒ वसू॒न्याभृ॑ता तृ॒ळ्हा रक्षां॑सि वा॒जिना॑ ॥

पदपाठः

अ॒ग्निम् । दे॒वासः॑ । अ॒ग्रि॒यम् । इ॒न्धते॑ । वृ॒त्र॒हन्ऽत॑मम् ।
येन॑ । वसू॑नि । आऽभृ॑ता । तृ॒ळ्हा । रक्षां॑सि । वा॒जिना॑ ॥

सायणभाष्यम्

अग्नियं मुख्यं वृत्रहन्तमं अतिशयेनवृत्रस्यहन्तारं इममग्निं देवासोदेवाः इन्धते दीपयन्ति येनाग्निना वसूनि असुरैरपहृतानिधनानि हविर्लक्षणान्यन्नानिवा आभृताअसुरसकाशाद्यजमानाद्वा आहृतानि येनच वाजिना बलवताग्निना रक्षांसि यज्ञविरोधीनि तृह्ळा तृढानि हिंसितानि तमग्निमिन्धतइत्यन्वयः ॥ ४८ ॥

इतिश्रीमद्राजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेणसायणाचार्येणविरचितेमाधवीयेवेदार्थप्रकाशे ऋक्संहिताभाष्ये चतुर्थाष्टकेपञ्चमोध्यायः समाप्तः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०