मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १७, ऋक् १

संहिता

पिबा॒ सोम॑म॒भि यमु॑ग्र॒ तर्द॑ ऊ॒र्वं गव्यं॒ महि॑ गृणा॒न इ॑न्द्र ।
वि यो धृ॑ष्णो॒ वधि॑षो वज्रहस्त॒ विश्वा॑ वृ॒त्रम॑मि॒त्रिया॒ शवो॑भिः ॥

पदपाठः

पिब॑ । सोम॑म् । अ॒भि । यम् । उ॒ग्र॒ । तर्दः॑ । ऊ॒र्वम् । गव्य॑म् । महि॑ । गृ॒णा॒नः । इ॒न्द्र॒ ।
वि । यः । धृ॒ष्णो॒ इति॑ । वधि॑षः । व॒ज्र॒ऽह॒स्त॒ । विश्वा॑ । वृ॒त्रम् । अ॒मि॒त्रिया॑ । शवः॑ऽभिः ॥

सायणभाष्यम्

यस्यनिःश्वसितंवेदायोवेदेभ्योखिलंजगत् । निर्ममेतमहंवन्देविद्यातीर्थमहेश्वरम् ॥ १ ॥

चतुर्थाष्टकेषष्ठोध्यायआरभ्यते षष्ठेमंडलेद्वितीयेनुवाकेप्रथमंसूक्तंव्याख्यातं तत्रपिबासोम मितिपंचदशर्चंद्वितीयंसूक्तं भरद्वाजस्यार्षं त्रै- ष्टुभमैन्द्रमंत्याद्विपदात्रिष्टुप् तथाचानुक्रान्तं—पिबपंचोनैन्द्रं त्रैष्टुभंद्विपदान्तमिति । अभिजितिमरुत्वतीयशस्त्रे एतन्निविद्धनं सूत्रि- तंच—पिबासोमंतमुष्टुहीतिमध्यंदिनइति । समूह्ळेदशरात्रेष्टमेहनिमरुत्वतीयशस्त्रेएतत्सूक्तं सूत्रितंच—पिबासोममभितमस्यद्यावा- पृथिवीइति । सूर्यस्तुन्नाम्न्येकाहेमरुत्वतीयीतत्सूक्तंनिविद्धानं सूत्र्यतेहि—सूर्यस्तुतायशस्कामः पिबासोममभीति । महाव्रतेपिमरुत्व- तीयीतत्सूक्तं तथैवपंचमारण्यकेसूत्रितंच—पिबासोममभियमुग्रतर्दः कयाशुभासवयसः सनीळाइति माध्यन्दिनसवनेआद्यास्तिस्रोहोतृ- मैत्रावरुणब्राह्मणाच्छंसिनांप्रस्थितयाज्याः सूत्रितंच—पिबासोममभियमुग्रतर्दइति । तिस्रोर्वाङेहिसोमकामंत्वाहुरिति ।

हेउग्र उद्रूर्णबलेन्द्र गृणानः अंगिरोभिःस्तूयमानस्त्वं यंसोममभिउद्दिश्य पातुमित्यर्थः महि महत् गव्यं गोसंबन्धि ऊर्वं पणिभिराहृतं- समूहं तर्दः प्रकाशितवानसितृदिर्हिंसाकर्मा अत्रप्रकाशनार्थः तंसोमंपिब पानंकुरु हेधृष्णोशत्रूणांधर्षक वज्रहस्त वज्रपाणे हेइन्द्र यस्त्वंश- षोभिर्बलैःसहितः सन् विश्वा विश्वं वृत्रं आवरकं अमित्रिया अमित्रियंशत्रुं अमित्रशब्दात् द्वितीयैकवचनस्येयादेशः विवधिषः व्यवधीः सत्वं सोमंपिबेतिसंबन्धः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः