मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १७, ऋक् ८

संहिता

अध॑ त्वा॒ विश्वे॑ पु॒र इ॑न्द्र दे॒वा एकं॑ त॒वसं॑ दधिरे॒ भरा॑य ।
अदे॑वो॒ यद॒भ्यौहि॑ष्ट दे॒वान्त्स्व॑र्षाता वृणत॒ इन्द्र॒मत्र॑ ॥

पदपाठः

अध॑ । त्वा॒ । विश्वे॑ । पु॒रः । इ॒न्द्र॒ । दे॒वाः । एक॑म् । त॒वस॑म् । द॒धि॒रे॒ । भरा॑य ।
अदे॑वः । यत् । अ॒भि । औहि॑ष्ट । दे॒वान् । स्वः॑ऽसाता । वृ॒ण॒ते॒ । इन्द्र॑म् । अत्र॑ ॥

सायणभाष्यम्

अधाधुनास्मिन्काले विश्वेदेवाः सर्वेवह्न्यादयः हेइन्द्र एकं मुख्यं तवसं प्रवृद्धं बलवन्तं त्वा त्वां भराय संग्रामाय पुरोदधिरे पुरस्ताच्च- क्रिरे यद्यदा अदेवोवृत्रासुरः देवान् अभ्यौहिष्ट संग्रामार्थंअभिगतवान् ओहतिर्गतिकर्मा किंच अत्रास्मिन्काले स्वर्षाता स्वर्पातौ संग्रामेदे- वामरुतइतिशेषः इन्द्रं वृणते संभजन्ते स्म मरुतोहीन्द्रंदेवेषुपलायितेषुसमभजन्नित्यर्थः अधुना पुरोदधिरेइतिसंबन्धः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः