मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १७, ऋक् ९

संहिता

अध॒ द्यौश्चि॑त्ते॒ अप॒ सा नु वज्रा॑द्द्वि॒तान॑मद्भि॒यसा॒ स्वस्य॑ म॒न्योः ।
अहिं॒ यदिन्द्रो॑ अ॒भ्योह॑सानं॒ नि चि॑द्वि॒श्वायु॑ः श॒यथे॑ ज॒घान॑ ॥

पदपाठः

अध॑ । द्यौः । चि॒त् । ते॒ । अप॑ । सा । नु । वज्रा॑त् । द्वि॒ता । अ॒न॒म॒त् । भि॒यसा॑ । स्वस्य॑ । म॒न्योः ।
अहि॑म् । यत् । इन्द्रः॑ । अ॒भि । ओह॑सानम् । नि । चि॒त् । वि॒श्वऽआ॑युः । श॒यथे॑ । ज॒घान॑ ॥

सायणभाष्यम्

साप्रसिद्धा देवानामाश्रयत्वेन द्यौश्चित् द्युलोकोपि हेइन्द्र अधाधुनास्मिन् काले द्विता द्विधा द्विप्रकारात् तेत्वदीयाद्वज्रात् स्वस्यात्मी- यात् मन्योः क्रोधाच्च भियसा भयेन अपानमत् अपननाम नुइतिपूरणः विश्वयुर्बह्वन्नइन्द्रः यद्यदा अभ्योहसानमभिगच्छन्तं अहिं वृत्रं शयथे शयननिमित्ते मरणायेत्यर्थः जघान न्यवधीत् चिदितिपूरणः यदा वृत्रंजघान अस्मिन्कालेद्यौर्ननामेतिसंबन्धः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः