अध॒ त्वष्टा॑ ते म॒ह उ॑ग्र॒ वज्रं॑ स॒हस्र॑भृष्टिं ववृतच्छ॒ताश्रि॑म् ।
निका॑मम॒रम॑णसं॒ येन॒ नव॑न्त॒महिं॒ सं पि॑णगृजीषिन् ॥
अध॑ । त्वष्टा॑ । ते॒ । म॒हः । उ॒ग्र॒ । वज्र॑म् । स॒हस्र॑ऽभृष्टिम् । व॒वृ॒त॒त् । श॒तऽअ॑श्रिम् ।
निऽका॑मम् । अ॒रऽम॑नसम् । येन॑ । नव॑न्तम् । अहि॑म् । सम् । पि॒ण॒क् । ऋ॒जी॒षि॒न् ॥
अधाधुना हेउग्र उद्गूर्णबलेन्द्र महोमहतस्तव त्वष्टा देवशिल्पी वज्रं ववृतत् न्यवर्तयत् निष्पन्नंकृतवान् कीदृशं सहस्रभृष्टिं सहस्रधारं शताश्रिं शतपर्वाणं हेऋजीषिन् गतरससोमवन्निन्द्र येनवज्रेण निकामं नियतःकामोयस्यतं अरमनसं शत्रूणामरमभिगन्तृमनोयस्यतं नवन्तं शब्दायमानं अहिं वृत्रमसुरं संपिणक् संपिष्टवानसि तंवज्रंकृतवानित्यर्थः ॥ १० ॥