मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १७, ऋक् १५

संहिता

अ॒या वाजं॑ दे॒वहि॑तं सनेम॒ मदे॑म श॒तहि॑माः सु॒वीरा॑ः ॥

पदपाठः

अ॒या । वाज॑म् । दे॒वऽहि॑तम् । स॒ने॒म॒ । मदे॑म । श॒तऽहि॑माः । सु॒ऽवीराः॑ ॥

सायणभाष्यम्

अया अनयास्तुत्या देवहितं देवेनद्योतमानेनेन्द्रेणदत्तं वाजमन्नं सनेम वयंसंभजेम अपिच सुवीराःशोभनपुत्रोपेतावयं शतहिमाः शत- संवत्सरान् मदेम हृष्याम ॥ १५ ॥

तमुष्टुहीति पंचदशर्चंतृतीयंसूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रं तथाचानुक्रम्यते—तमुष्टुहीति । अभिजितिनिष्केवल्येएतन्निविद्धानं सूत्रितं- च—तमुष्टुहीतिमध्यन्दिनइति । इन्द्राग्न्योःकुलायनाम्र्येकाहेपि निष्केवल्येएतन्निविद्धानं सूत्रितंच—तिष्ठाहरीतमुष्टुहीतिमध्यंदिनइति । महाव्रतेपि निष्केवल्ये तथैवपंचमारण्यकेसूत्रितं--तमुष्टुहियोअभिभूत्योजाःसुतइत्वंनिमिश्लइन्द्रसोमइतित्रीणीति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः