मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १८, ऋक् ५

संहिता

तन्न॑ः प्र॒त्नं स॒ख्यम॑स्तु यु॒ष्मे इ॒त्था वद॑द्भिर्व॒लमङ्गि॑रोभिः ।
हन्न॑च्युतच्युद्दस्मे॒षय॑न्तमृ॒णोः पुरो॒ वि दुरो॑ अस्य॒ विश्वा॑ः ॥

पदपाठः

तत् । नः॒ । प्र॒त्नम् । स॒ख्यम् । अ॒स्तु॒ । यु॒ष्मे इति॑ । इ॒त्था । वद॑त्ऽभिः । व॒लम् । अङ्गि॑रःऽभिः ।
हन् । अ॒च्यु॒त॒ऽच्यु॒त् । द॒स्म॒ । इ॒षय॑न्तम् । ऋ॒णोः । पुरः॑ । वि । दुरः॑ । अ॒स्य॒ । विश्वाः॑ ॥

सायणभाष्यम्

प्रत्नं पुराणं चिरकालानुवर्तीत्यर्थः तत्प्रसिद्धं नोस्मदीयं सख्यं स्तुत्यस्तोतृलक्षणं सखित्वं हेइन्द्र युष्मे युष्मास्वस्तु पूजार्थंबहुवचनं हे- अच्युतच्युत् अच्युतानां अविचलितानांच्यावक हेदस्म दर्शनीयेन्द्रत्वं इषयन्तं आयुधानिप्रेरयन्तं बलमेतन्नामानमसुरं इत्था सत्यमेव वद- द्भिस्त्वांस्तुवद्भिरंगिरोभिःसह हन् हतवानसि अपिच अस्यबलस्य पुरः नगराणि व्यृणोः व्यगमयः वियुक्तान्यकार्षीरित्यर्थःविश्वाः सर्वा: दुरः पुरीणांद्वारश्चव्युणोः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः