मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १८, ऋक् १०

संहिता

अ॒ग्निर्न शुष्कं॒ वन॑मिन्द्र हे॒ती रक्षो॒ नि ध॑क्ष्य॒शनि॒र्न भी॒मा ।
ग॒म्भी॒रय॑ ऋ॒ष्वया॒ यो रु॒रोजाध्वा॑नयद्दुरि॒ता द॒म्भय॑च्च ॥

पदपाठः

अ॒ग्निः । न । शुष्क॑म् । वन॑म् । इ॒न्द्र॒ । हे॒ती । रक्षः॑ । नि । ध॒क्षि॒ । अ॒शनिः॑ । न । भी॒मा ।
ग॒म्भी॒रया॑ । ऋ॒ष्वया॑ । यः । रु॒रोज॑ । अध्व॑नयत् । दुः॒ऽइ॒ता । द॒म्भय॑त् । च॒ ॥

सायणभाष्यम्

अग्निर्न अग्निरिव नशब्दउपमार्थीयः यथाअग्निःशुष्कंनीरसंवनंवृक्षसमूहंदहति हेइन्द्र हेतिस्त्वदीयंवज्रं तद्वच्छत्रून्नाशयति तदेवाह अशनिर्नभीमा यथाअशनिर्भीमाभवति तद्वद्भयंकरस्त्वं रक्षोराक्षसं निधक्षि वज्रेण नितरांदह यइन्द्रः गंभीरया शत्रुभिरधर्षणीयया ऋष्वया महत्या ऋष्वइतिमहन्नामैतत् हेत्या रुरोज शत्रून्बभंज अध्वनयत् युद्धेगर्जनलक्षणंशब्दंकरोति तथाच दुरिता दुरितानि दंभ- यच्चभिनत्तिच सत्वंरक्षोनिधक्षीतिपूर्वेणान्वयः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः