मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १८, ऋक् १३

संहिता

प्र तत्ते॑ अ॒द्या कर॑णं कृ॒तं भू॒त्कुत्सं॒ यदा॒युम॑तिथि॒ग्वम॑स्मै ।
पु॒रू स॒हस्रा॒ नि शि॑शा अ॒भि क्षामुत्तूर्व॑याणं धृष॒ता नि॑नेथ ॥

पदपाठः

प्र । तत् । ते॒ । अ॒द्य । कर॑णम् । कृ॒तम् । भू॒त् । कुत्स॑म् । यत् । आ॒युम् । अ॒ति॒थि॒ऽग्वम् । अ॒स्मै॒ ।
पु॒रु । स॒हस्रा॑ । नि । शि॒शाः॒ । अ॒भि । क्षाम् । उत् । तूर्व॑याणम् । धृ॒ष॒ता । नि॒ने॒थ॒ ॥

सायणभाष्यम्

अद्येदानीमपि हेइन्द्र ते त्वया कृतंकरणं तत्कर्म प्रभूत् प्रभवति प्रकाशते किंतदिति उच्यते कुत्सं शुष्णाद्राक्षसादेतन्नामानमृषिंच आयुं शत्रुभ्यःसकाशादेतत्संज्ञकं पौरूरवसं अतिथिग्वं अतिथीनामभिगन्तारं दिवोदासंच शंबरात् ररक्षिथेतियत्करणंतत्प्रभवतीतिपूर्वेणसंब- न्धः ररक्षिथेतिद्वितीयाश्रुतेरुचितक्रियाध्याहारः अपिचास्मै अनंतरोक्तायातिथिग्वाय पुरु पुरूणि बहूनि सहस्रासहस्राणि शंबरस्यधनानि निशिशाः अददाः इन्द्रःशंबरंहत्वा तस्यधनानिदिवोदासायददावित्यर्थः तथा हेइन्द्र धृषता धर्षणेन त्वदीयेनवज्रेण शंबरं हत्वा क्षां पृथि- वीं अभि अभिलक्ष्य पृथिव्यांवर्तमानं तूर्वयाणं त्वरितगमनं दिवोदासंउन्निनेथ आपद्भ्यःउदगमयः ॥ १३ ॥ अनुक्रीनाम्न्येकाहेमरुत्वतीयशस्त्रे अनुत्वाहिघ्नइतिसूक्तमुखीया सूत्रितंच—अनुत्वाहिघ्नेअधदेवदेवाअनुतेदायिमहइन्द्रियायेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः