मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १८, ऋक् १४

संहिता

अनु॒ त्वाहि॑घ्ने॒ अध॑ देव दे॒वा मद॒न्विश्वे॑ क॒वित॑मं कवी॒नाम् ।
करो॒ यत्र॒ वरि॑वो बाधि॒ताय॑ दि॒वे जना॑य त॒न्वे॑ गृणा॒नः ॥

पदपाठः

अनु॑ । त्वा॒ । अहि॑ऽघ्ने । अध॑ । दे॒व॒ । दे॒वाः । मद॑न् । विश्वे॑ । क॒विऽत॑मम् । क॒वी॒नाम् ।
करः॑ । यत्र॑ । वरि॑वः । बा॒धि॒ताय॑ । दि॒वे । जना॑य । त॒न्वे॑ । गृ॒णा॒नः ॥

सायणभाष्यम्

हेदेव द्योतमानेन्द्र त्वा त्वां अधास्मिन्काले विश्वे सर्वेदेवाःस्तोतारःअहिघ्ने मेघहननाय वृष्टिप्रदानायेत्यर्थः अनुमदन्ननुमदन्ति अनुस्तु- वन्ति कीदृशंत्वां कवीनां मेधाविनांमध्ये कवितमं अत्यंतंकविं यत्र यस्मिन्काले गृणानः स्तोतृभिःस्तूयमानः त्वं बाधिताय दारिद्भ्यादि- भिःपीडिताय दिवे स्तोत्रेजनाय तन्वे स्तोतॄणांतनयायच वरिवोधनं करः अकरोः अददाः अथवा हेदेवेन्द्र अथास्मिन्काले विश्वे सर्वेदेवाः सुराः अहिर्वृत्रएवोच्यते तस्यहननाय कवीमांकवितमंत्वां अनुमदन्ति यत्र यस्मिंस्तोत्रेसति बाधितायासुरैःपीडिताय दिवे द्युलोकनिवा- सायजनाय तन्वे शोभायै वृत्रहननेन तवशोभार्थं वरिवश्चकर्थ ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः