मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १९, ऋक् ६

संहिता

शवि॑ष्ठं न॒ आ भ॑र शूर॒ शव॒ ओजि॑ष्ठ॒मोजो॑ अभिभूत उ॒ग्रम् ।
विश्वा॑ द्यु॒म्ना वृष्ण्या॒ मानु॑षाणाम॒स्मभ्यं॑ दा हरिवो माद॒यध्यै॑ ॥

पदपाठः

शवि॑ष्ठम् । नः॒ । आ । भ॒र॒ । शू॒र॒ । शवः॑ । ओजि॑ष्ठम् । ओजः॑ । अ॒भि॒ऽभू॒ते॒ । उ॒ग्रम् ।
विश्वा॑ । द्यु॒म्ना । वृष्ण्या॑ । मानु॑षाणाम् । अ॒स्मभ्य॑म् । दाः॒ । ह॒रि॒ऽवः॒ । मा॒द॒यध्यै॑ ॥

सायणभाष्यम्

हेशूर विक्रान्तेन्द्र शविष्ठं बलवत्तमं शबोबलं नोस्मभ्यं आभराहर हेअभिभूते शत्रूणामभिभावुकेन्द्र उग्रमप्रसह्यं ओजिष्ठमोजस्वितमं ओजोदीप्तिमस्मभ्यंआभर विश्वा विश्वानि सर्वाणि वृष्ट्या वृष्ट्यानि सेचनसमर्थानि द्युम्ना द्युम्नानिद्योतमानानि यानिधनानि मानुषाणां मनुष्याणां भोग्यतयाकल्पितानि हेहरिवः हरिवन्निन्द्र तानिधनानि मादयध्यै अस्मान्मादितुं अस्मभ्यंदाः प्रयच्छ ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः