मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २१, ऋक् ७

संहिता

अ॒भि त्वा॒ पाजो॑ र॒क्षसो॒ वि त॑स्थे॒ महि॑ जज्ञा॒नम॒भि तत्सु ति॑ष्ठ ।
तव॑ प्र॒त्नेन॒ युज्ये॑न॒ सख्या॒ वज्रे॑ण धृष्णो॒ अप॒ ता नु॑दस्व ॥

पदपाठः

अ॒भि । त्वा॒ । पाजः॑ । र॒क्षसः॑ । वि । त॒स्थे॒ । महि॑ । ज॒ज्ञा॒नम् । अ॒भि । तत् । सु । ति॒ष्ठ॒ ।
तव॑ । प्र॒त्नेन॑ । युज्ये॑न । सख्या॑ । वज्रे॑ण । धृ॒ष्णो॒ इति॑ । अप॑ । ता । नु॒द॒स्व॒ ॥

सायणभाष्यम्

रक्षसोरक्षसांसंबन्धिपाजः सेनालक्षणंबलं हेइन्द्र त्वाअभि त्वांअभिमुखं वितस्थे प्रतिष्ठते तथात्वमपि महि महत् जज्ञानं प्रादुर्भवत् तद्बलं अभि अभिमुखःसन् सु सुष्ठु तिष्ठ स्थिरोभव स्थित्वाच हेधृष्णो शत्रूणांधर्षकेन्द्र तव त्वदीयेनवज्रेण ता तद्बलं अपनुदस्व अपगतं प्रेरय छिन्धीत्यर्थः कीदृशेनप्रत्नेन पुराणेन युज्येन योज्येन सख्या नित्यसहायेन ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२