मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २१, ऋक् ९

संहिता

प्रोतये॒ वरु॑णं मि॒त्रमिन्द्रं॑ म॒रुतः॑ कृ॒ष्वाव॑से नो अ॒द्य ।
प्र पू॒षणं॒ विष्णु॑म॒ग्निं पुरं॑धिं सवि॒तार॒मोष॑धी॒ः पर्व॑ताँश्च ॥

पदपाठः

प्र । ऊ॒तये॑ । वरु॑णम् । मि॒त्रम् । इन्द्र॑म् । म॒रुतः॑ । कृ॒ष्व॒ । अव॑से । नः॒ । अ॒द्य ।
प्र । पू॒षण॑म् । विष्णु॑म् । अ॒ग्निम् । पुर॑म्ऽधि॑म् । स॒वि॒तार॑म् । ओष॑धीः । पर्व॑तान् । च॒ ॥

सायणभाष्यम्

अस्यामृचिविश्वेदेवाःस्तूयन्ते हेभरद्वाज अद्येदानीं वरुणं रात्र्यभिमानिनंच मित्रमहरभिमानिनंच इन्द्रंच प्रसिद्धं मरुतोमरुद्गणांश्च नोस्माकं ऊतये तर्पणाय अवसे रक्षणायच प्रकृष्वाभिमुखीकुरुष्व किंच षूषणं एतत्संज्ञकंचविष्णुं सर्वव्यापिनंदेवंच पुरंधिं पुरुधियं पुरु- कर्माणं अग्निंच सवितारं सर्वस्यप्रेरकं देवं ओषधीः ओषध्यभिमानिनोदेवान् पर्वतांश्चाद्रीन् इत्येतान् देवान् अस्माकंतर्पणाय रक्षणायच प्रकृष्व स्तुत्याभिमुखीकुरु ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२