मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २२, ऋक् ६

संहिता

अ॒या ह॒ त्यं मा॒यया॑ वावृधा॒नं म॑नो॒जुवा॑ स्वतव॒ः पर्व॑तेन ।
अच्यु॑ता चिद्वीळि॒ता स्वो॑जो रु॒जो वि दृ॒ळ्हा धृ॑ष॒ता वि॑रप्शिन् ॥

पदपाठः

अ॒या । ह॒ । त्यम् । मा॒यया॑ । व॒वृ॒धा॒नम् । म॒नः॒ऽजुवा॑ । स्व॒ऽत॒वः॒ । पर्व॑तेन ।
अच्यु॑ता । चि॒त् । वी॒ळि॒ता । सु॒ऽओ॒जः॒ । रु॒जः । वि । दृ॒ळ्हा । धृ॒ष॒ता । वि॒ऽर॒प्शि॒न् ॥

सायणभाष्यम्

हेस्वतवसः स्वभूतबलेन्द्र त्वंमनोजुवा मनोवद्गच्छता अया अनेनपर्वतेन बहुपर्वणा स्वकीयेनायुधेन वज्रेणशतपर्वणेतिदर्शनात् माय- याववृधानं वर्धमानं त्यं तं प्रसिद्धं वृत्रं व्यरुजः विशेषेणभांक्षीः तथा हे स्वोजः शोभनतेजः हे विरप्शिन् हे महन् इन्द्र त्वं अच्युता अच्युता- नि चिद्धि नाशरहितान्यपि वीळिता वीळितानि अशिथिलीकृतानि दृह्ळा दृढानि पुराणि धृषता धर्षकेणवज्रेण व्यरुजोभग्नवानसि ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४