मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २३, ऋक् २

संहिता

यद्वा॑ दि॒वि पार्ये॒ सुष्वि॑मिन्द्र वृत्र॒हत्येऽव॑सि॒ शूर॑सातौ ।
यद्वा॒ दक्ष॑स्य बि॒भ्युषो॒ अबि॑भ्य॒दर॑न्धय॒ः शर्ध॑त इन्द्र॒ दस्यू॑न् ॥

पदपाठः

यत् । वा॒ । दि॒वि । पार्ये॑ । सुस्वि॑म् । इ॒न्द्र॒ । वृ॒त्र॒ऽहत्ये॑ । अव॑सि । शूर॑ऽसातौ ।
यत् । वा॒ । दक्ष॑स्य । बि॒भ्युषः॑ । अबि॑भ्यत् । अर॑न्धयः । शर्ध॑तः । इ॒न्द्र॒ । दस्यू॑न् ॥

सायणभाष्यम्

हेइन्द्र त्वं दिवि द्युलोके शूरसातौ शूरैर्भटैःसंभजनीये वृत्रहत्ये युद्धेच पार्ये प्राप्तव्ये सति सुष्विमभिषोतारं यजमानं अवसि यद्वा रक्षसीति यच्चवेतिसमुच्चये दक्षस्य यज्ञादिषुसमर्थस्य बिभ्युषः शत्रुभ्योबिभ्यतोजनस्य शर्धतः संग्रामेउत्सहमानान् दस्यूनुपक्षपयितॄन्- शत्रून् हेइन्द्र त्वं अबिभ्यद्भीतिरहितःसन् अरन्धयः यद्वा वशीकरोषीति यच्चतत्सर्वं सोमेभिषुतइतिपूर्वेणसंबन्धः तथाचोक्तं यद्बाह्वो- र्धारयन्वज्रंहरिभ्यांयासिवृत्रहन् ॥ यच्चरक्षतिसंग्रामेनॄन् सोममभिषुण्वतः ॥ यच्चकर्मसुदक्षस्ययजमानस्यापारयः ॥ वशीकरोषितांतस्मै- बिभ्यतेभीतिवर्जितः ॥ तत्सोमेभिषुतेस्तोत्रशस्त्रयोश्चप्रवृत्तयोः ॥ इतिद्वृचोयमेकार्थःसुतइत्त्वमितिद्वयंइति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५