मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २३, ऋक् ५

संहिता

अस्मै॑ व॒यं यद्वा॒वान॒ तद्वि॑विष्म॒ इन्द्रा॑य॒ यो नः॑ प्र॒दिवो॒ अप॒स्कः ।
सु॒ते सोमे॑ स्तु॒मसि॒ शंस॑दु॒क्थेन्द्रा॑य॒ ब्रह्म॒ वर्ध॑नं॒ यथास॑त् ॥

पदपाठः

अस्मै॑ । व॒यम् । यत् । व॒वान॑ । तत् । वि॒वि॒ष्मः॒ । इन्द्रा॑य । यः । नः॒ । प्र॒ऽदिवः॑ । अपः॑ । करिति॒ कः ।
सु॒ते । सोमे॑ । स्तु॒मसि॑ । शंस॑त् । उ॒क्था । इन्द्रा॑य । ब्रह्म॑ । वर्ध॑नम् । यथा॑ । अस॑त् ॥

सायणभाष्यम्

प्रदिवः पुराणोयइन्द्रः नोस्मदर्थं अपः पोषणादिकंकर्म कः करोति अयमिन्द्रः यत् स्तोत्रादिकं ववान कामयते अस्माइन्द्राय वयं तद्विविष्मः व्याप्नुमः कुर्मइत्यर्थः सोमेसुतेभिषुते सति स्तुमसि स्तुमः इन्द्रायस्तोत्राणिकुर्मः उक्था उक्थानि शस्त्राणि शंसत् शंसंतः प्रथमाबहुवचनस्यलुक् ब्रह्म हविर्लक्षणमन्नं इन्द्रायेन्द्रार्थंवर्धनंयथावृद्धिकरं असत् स्यात् तथाकुर्मइत्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५