मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २४, ऋक् ३

संहिता

अक्षो॒ न च॒क्र्यो॑ः शूर बृ॒हन्प्र ते॑ म॒ह्ना रि॑रिचे॒ रोद॑स्योः ।
वृ॒क्षस्य॒ नु ते॑ पुरुहूत व॒या व्यू॒३॒॑तयो॑ रुरुहुरिन्द्र पू॒र्वीः ॥

पदपाठः

अक्षः॑ । न । च॒क्र्योः॑ । शू॒र॒ । बृ॒हन् । प्र । ते॒ । म॒ह्ना । रि॒रि॒चे॒ । रोद॑स्योः ।
वृ॒क्षस्य॑ । नु । ते॒ । पु॒रु॒ऽहू॒त॒ । व॒याः । वि । ऊ॒तयः॑ । रु॒रु॒हुः॒ । इ॒न्द्र॒ । पू॒र्वीः ॥

सायणभाष्यम्

हेशूर विक्रान्तेन्द्र बृहन् महान् तेत्वदीयोमह्ना महिमा रोदस्योर्द्यावापृथिव्योः प्ररिरिचे अतिरिच्यते द्यावापृथिवीभ्यामित्यर्थः अत्र- दृष्टान्तः—चक्र्योःचक्रयोः अक्षोन रथसंबन्धी अक्षोयथाचक्राभ्यांबहिर्गतः तद्वत् हेपुरुहूत बहुभिराहूतेन्द्र त्वदीयाः पूर्वीर्बह्व्यः ऊतयोर- क्षाः विरुरुहुः विशेषेणरोहन्ति तत्रदृष्टान्तः—वृक्षस्यनु यथावृक्षस्य वयाः शाखाः विरोहन्तितद्वत् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७