मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २५, ऋक् ३

संहिता

इन्द्र॑ जा॒मय॑ उ॒त येऽजा॑मयोऽर्वाची॒नासो॑ व॒नुषो॑ युयु॒ज्रे ।
त्वमे॑षां विथु॒रा शवां॑सि ज॒हि वृष्ण्या॑नि कृणु॒ही परा॑चः ॥

पदपाठः

इन्द्र॑ । जा॒मयः॑ । उ॒त । ये । अजा॑मयः । अ॒र्वा॒ची॒नासः॑ । व॒नुषः॑ । यु॒यु॒ज्रे ।
त्वम् । ए॒षा॒म् । वि॒थु॒रा । शवां॑सि । ज॒हि । वृष्ण्या॑नि । कृ॒णु॒हि । परा॑चः ॥

सायणभाष्यम्

हेइन्द्र जामयःज्ञातिरूपाः संनिकृष्टायेशत्रवः उतापिच अजामयोदूरदेशेस्थिताः येशत्रवः अर्वाचीनासः अस्मदभिमुखाः वनुषोहिंसन्तः युयुज्रे उद्युक्ताभवन्ति एषामुभयविधानां शत्रूणां संबन्धीनि शवांसि बलानि विथुरा विथुराणिहीनानि त्वं कुर्वितिशेषः तथा वृष्णयानि एषांवीर्याणि जहि नाशय किंच पराचः उभयविधान् शत्रून् पराचः पराङ्मुखान् कृणुहि कुरु ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९