मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २५, ऋक् ८

संहिता

अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये॑ ।
अनु॑ क्ष॒त्रमनु॒ सहो॑ यज॒त्रेन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये॑ ॥

पदपाठः

अनु॑ । ते॒ । दा॒यि॒ । म॒हे । इ॒न्द्रि॒याय॑ । स॒त्रा । ते॒ । विश्व॑म् । अनु॑ । वृ॒त्र॒ऽहत्ये॑ ।
अनु॑ । क्ष॒त्रम् । अनु॑ । सहः॑ । य॒ज॒त्र॒ । इन्द्र॑ । दे॒वेभिः॑ । अनु॑ । ते॒ । नृ॒ऽसह्ये॑ ॥

सायणभाष्यम्

हेइन्द्र महे महते ते तुभ्यमिन्द्रियाय ऎश्वर्यार्थं अनुदायि अन्वदायि अनुदीयतेस्म वृत्रहत्ये वृत्रवधेनिमित्ते ते तुभ्यं विशं समस्तं सत्रा सत्यमनुदायि कैःकिमनुदीयतइतितदुभयमाह येनविश्वंबिभर्ति तत् क्षत्रं बलमनुदायि येनशत्रूनभिभवति तद्गुण विशिष्टं सहोबलमनुदा- यि हे यजत्र यजनीयेन्द्र ते तुभ्यं नृसह्ये युद्धे देवेभिः सर्वैःदेवैः एतत्सर्वमनुदायि ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०