अ॒हं च॒न तत्सू॒रिभि॑रानश्यां॒ तव॒ ज्याय॑ इन्द्र सु॒म्नमोजः॑ ।
त्वया॒ यत्स्तव॑न्ते सधवीर वी॒रास्त्रि॒वरू॑थेन॒ नहु॑षा शविष्ठ ॥
अ॒हम् । च॒न । तत् । सू॒रिऽभिः॑ । आ॒न॒श्या॒न् । तव॑ । ज्यायः॑ । इ॒न्द्र॒ । सु॒म्नम् । ओजः॑ ।
त्वया॑ । यत् । स्तव॑न्ते । स॒ध॒ऽवी॒र॒ । वी॒राः । त्रि॒ऽवरू॑थेन । नहु॑षा । श॒वि॒ष्ठ॒ ॥
हेसधवीर वीरैःसहित शविष्ठ बलवत्तमेन्द्र वीराःस्तोतारः त्रिवरूथेन त्रीणिवरूथान्यावरकाणिभुवनानियस्यतेन नहुषा शत्रूणां- बन्धकेन त्वयादत्तं यत्सुम्नंसुखंओजोबलंच स्तवन्ते स्तुवन्ति हेइन्द्र तव त्वयादत्तं ज्यायः अतिशयेनप्रशस्यं तत्सुम्नमोजः अहंचन अहमपिभरद्वाजः सूरिभिर्मदीयैः स्तोतृभिः सह आनश्यां प्राप्नयां ॥ ७ ॥