मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २७, ऋक् ४

संहिता

ए॒तत्त्यत्त॑ इन्द्रि॒यम॑चेति॒ येनाव॑धीर्व॒रशि॑खस्य॒ शेषः॑ ।
वज्र॑स्य॒ यत्ते॒ निह॑तस्य॒ शुष्मा॑त्स्व॒नाच्चि॑दिन्द्र पर॒मो द॒दार॑ ॥

पदपाठः

ए॒तत् । त्यत् । ते॒ । इ॒न्द्रि॒यम् । अ॒चे॒ति॒ । येन॑ । अव॑धीः । व॒रऽशि॑खस्य । शेषः॑ ।
वज्र॑स्य । यत् । ते॒ । निऽह॑तस्य । शुष्मा॑त् । स्व॒नात् । चि॒त् । इ॒न्द्र॒ । प॒र॒मः । द॒दार॑ ॥

सायणभाष्यम्

हेइन्द्र येनवीर्येण वरशिखस्य वरशिखोनामकश्चिदसुरः शोषः शोषांसिपुत्रान् शोषइत्यपत्यनामैतत् अवधीरहिंसीः ते त्वदीयमेत- त्त्यत् तदिदमिन्द्रिक्यंवीर्यं अचेति अस्माभिरज्ञायि हेइन्द्र यद्यस्मात् शुष्माद्बलात् निहतस्य प्रेरितस्य त्वदीयवज्ज्र्स्य स्वनाच्चित् ध्वने- रेवपरमः ब्रशिखस्यपुत्राणांमध्ये बलाद्याधिक्येनोत्कृष्टः किश्चित्पुत्रः ददार अदीर्यत ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३