अधा॑ मन्ये बृ॒हद॑सु॒र्य॑मस्य॒ यानि॑ दा॒धार॒ नकि॒रा मि॑नाति ।
दि॒वेदि॑वे॒ सूर्यो॑ दर्श॒तो भू॒द्वि सद्मा॑न्युर्वि॒या सु॒क्रतु॑र्धात् ॥
अध॑ । म॒न्ये॒ । बृ॒हत् । अ॒सु॒र्य॑म् । अ॒स्य॒ । यानि॑ । दा॒धार॑ । नकिः॑ । आ । मि॒ना॒ति॒ ।
दि॒वेऽदि॑वे । सूर्यः॑ । द॒र्श॒तः । भू॒त् । वि । सद्मा॑नि । उ॒र्वि॒या । सु॒ऽक्रतुः॑ । धा॒त् ॥
अध अधुना अस्येन्द्रस्य बृहत् महत् असुर्यं असुरहननकुशलं बलंमन्ये स्तौमि मन्यतिः स्तुतिकर्मा सचेन्द्रः यानिकर्माणि दाधार धार- यति तानि नकिरामिनाति नकश्चिदपिहिनस्ति कानिपुनस्तानि उच्यते दिवेदिवे प्रतिदिनं वृत्रेणावृतः सूर्यः दर्शतोदर्शनीयः भूत् भवति आवरकस्यासुरस्यवधेन सूर्यंप्रकाशितवानित्येकंकर्म सूक्रतुः शोभनकर्मासइन्द्रः सद्मानि भुवनानि उर्विया उरूणिविस्तीर्णानि विधात् व्यधात् अकार्षीत् इदमपरंकर्म एतदादीनिबहूनिकर्माणिकृतवानित्यर्थः ॥ २ ॥