मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३०, ऋक् ३

संहिता

अ॒द्या चि॒न्नू चि॒त्तदपो॑ न॒दीनां॒ यदा॑भ्यो॒ अर॑दो गा॒तुमि॑न्द्र ।
नि पर्व॑ता अद्म॒सदो॒ न से॑दु॒स्त्वया॑ दृ॒ळ्हानि॑ सुक्रतो॒ रजां॑सि ॥

पदपाठः

अ॒द्य । चि॒त् । नु । चि॒त् । तत् । अपः॑ । न॒दीना॑म् । यत् । आ॒भ्यः॒ । अर॑दः । गा॒तुम् । इ॒न्द्र॒ ।
नि । पर्व॑ताः । अ॒द्म॒ऽसदः॑ । न । से॒दुः॒ । त्वया॑ । दृ॒ळ्हानि॑ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । रजां॑सि ॥

सायणभाष्यम्

हेइन्द्र अद्याचित् अद्यापिनूचित् पुरापि तवनदीनांसंबन्धिकं तदपः कर्म वर्तते आभ्योनदीभ्यः गातुं मार्गं अरदः प्रवहनार्थं व्यलिख- इतियत्कर्म तत्सर्वदानुपक्षीणंसद्वर्ततेइत्यर्थः अपिच त्वदाज्ञया पर्वतागिरयः निषेदुःनिषण्णाः उत्पतनंपरित्यज्यक्वचिदेवस्थानेनैश्चल्ये- नोपविष्टाबभूवुः अद्मसदोन अद्मअदनीयमन्नंतदर्थंसीदन्तःपुरुषाइव यथा तेभोजनार्थंनैश्चल्येनासीदन्तितथेत्यर्थः अतःकारणात् हेसुक्रतो शोभनकर्मन्निन्द्र त्वया रजांसि सर्वेलोकाः दृह्ळानिदृंहितानि स्थिरीकृताआसन् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः