मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३१, ऋक् १

संहिता

अभू॒रेको॑ रयिपते रयी॒णामा हस्त॑योरधिथा इन्द्र कृ॒ष्टीः ।
वि तो॒के अ॒प्सु तन॑ये च॒ सूरेऽवो॑चन्त चर्ष॒णयो॒ विवा॑चः ॥

पदपाठः

अभूः॑ । एकः॑ । र॒यि॒ऽप॒ते॒ । र॒यी॒णाम् । आ । हस्त॑योः । अ॒धि॒थाः॒ । इ॒न्द्र॒ । कृ॒ष्टीः ।
वि । तो॒के । अ॒प्ऽसु । तन॑ये । च॒ । सूरे॑ । अवो॑चन्त । च॒र्ष॒णयः॑ । विऽवा॑चः ॥

सायणभाष्यम्

हेरयिपते धनस्यपालकेन्द्र एकः प्रधानभूतस्त्वं रयीणां धनानांस्वामी अभूर्भवसि यद्वा रयीणांरयिपतेइतिसंबन्धः एकोरयिशब्दोनु- वादः यथा गवामसिगोपतिरेकइन्द्रेति तदानीं एकोमुख्यस्त्वंभवसीतियोजनीयं अपिच हेइंद्र त्वं हस्तयोरात्मीययोर्बाह्वोःकृष्टीः प्रजाः आअधिथाः अधत्से सर्वंजगत् तवाज्ञायांवर्ततेइत्यर्थः चर्षणयोमनुष्याः तोके पुत्रे अप्सूदकेषु सूरे शत्रूणांप्रेरके तनये पौत्रेषुच एतेषुनिमि- त्तभूतेषुसत्सु विवाचः विशिष्टाःस्तुतीःव्यवोचन्त विविधंब्रुवन्ति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः