मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३१, ऋक् २

संहिता

त्वद्भि॒येन्द्र॒ पार्थि॑वानि॒ विश्वाच्यु॑ता चिच्च्यावयन्ते॒ रजां॑सि ।
द्यावा॒क्षामा॒ पर्व॑तासो॒ वना॑नि॒ विश्वं॑ दृ॒ळ्हं भ॑यते॒ अज्म॒न्ना ते॑ ॥

पदपाठः

त्वत् । भि॒या । इ॒न्द्र॒ । पार्थि॑वानि । विश्वा॑ । अच्यु॑ता । चि॒त् । च्य॒व॒य॒न्ते॒ । रजां॑सि ।
द्यावा॒क्षामा॑ । पर्व॑तासः । वना॑नि । विश्व॑म् । दृ॒ळ्हम् । भ॒य॒ते॒ । अज्म॑न् । आ । ते॒ ॥

सायणभाष्यम्

हेइन्द्र त्वत् त्वत्तोभियाभयेन विश्वा विश्वानिव्यापकानि पार्थिवानि पृथिव्यंतरिक्षनाम तत्रभवानि रजांस्युदकानि अच्युताचित् च्यावयितुमशक्यान्यपि च्यावयन्तेमेघाः प्रच्यावयन्ति वर्षन्तीत्यर्थः अपिच हेइन्द्र तेतव अज्मन् आगमनेसति द्यावाक्षामा द्यावापृथि- व्यौ पर्वतासोगिरयोवनानिवृक्षाश्च भयते भयंप्राप्नुवन्ति किंबहुना विश्वं सर्वं दृह्ळं स्थिरं प्राणिजातं भयते बिभेति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः