मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३२, ऋक् १

संहिता

अपू॑र्व्या पुरु॒तमा॑न्यस्मै म॒हे वी॒राय॑ त॒वसे॑ तु॒राय॑ ।
वि॒र॒प्शिने॑ व॒ज्रिणे॒ शंत॑मानि॒ वचां॑स्या॒सा स्थवि॑राय तक्षम् ॥

पदपाठः

अपू॑र्व्या । पु॒रु॒ऽतमा॑नि । अ॒स्मै॒ । म॒हे । वी॒राय॑ । त॒वसे॑ । तु॒राय॑ ।
वि॒ऽर॒प्शिने॑ । व॒ज्रिणे॑ । शम्ऽत॑मानि । वचां॑सि । आ॒सा । स्थवि॑राय । त॒क्ष॒म् ॥

सायणभाष्यम्

अपूर्व्या अपूर्व्याणि पूर्वैरकृतानि नूतनानि पुरुतमानि बहुतमानि शंतमानि सुखकृत्तमानि वचांसि स्तुतिरुपाणिवाक्यानि आसा आस्येन अस्मै इन्द्राय तक्षमतक्षंकरोमि कीदृशाय महे महते वीराय विविधरशत्रूणांमारयित्रे तवसे तवस्विनेबलवते तुराय त्वरमाणाय दिरप्शिने विशेषेणस्तुत्याय वज्रिणे वज्रवते स्थविराय प्रवृद्धाय ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः