मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३४, ऋक् ५

संहिता

अस्मा॑ ए॒तन्मह्या॑ङ्गू॒षम॑स्मा॒ इन्द्रा॑य स्तो॒त्रं म॒तिभि॑रवाचि ।
अस॒द्यथा॑ मह॒ति वृ॑त्र॒तूर्य॒ इन्द्रो॑ वि॒श्वायु॑रवि॒ता वृ॒धश्च॑ ॥

पदपाठः

अस्मै॑ । ए॒तत् । महि॑ । आ॒ङ्गू॒षम् । अ॒स्मै॒ । इन्द्रा॑य । स्तो॒त्रम् । म॒तिऽभिः॑ । अ॒वा॒चि॒ ।
अस॑त् । यथा॑ । म॒ह॒ति । वृ॒त्र॒ऽतूर्ये॑ । इन्द्रः॑ । वि॒श्वऽआ॑युः । अ॒वि॒ता । वृ॒धः । च॒ ॥

सायणभाष्यम्

अस्मैइन्द्राय महि महत् एतत् आंगूषं स्तोत्रं मतिभिः स्तोतृभिरवाचि उक्तमभूत् अस्मैइंद्राय स्तोत्रमितिपुनरुक्तिरादरार्था विश्वायुः सर्वत्रगन्ता सइन्द्रः महति प्रभूते वृत्रतूर्ये संग्रामे यथा येनप्रकारेण अस्माकं अविता रक्षकःवृधोवर्धयिताच असद्भवेत् तथा अवाचीत्यन्व- यः ॥ ५ ॥

कदाभुवन्नितिपंचर्चंद्वादशंसूक्तं नरस्यार्षंत्रैष्टुभमैन्द्रं तथाचानुक्रान्तं—कदानरस्त्विति । तृतीयेछन्दोमेमहाव्रतेचनिष्केवल्येउक्तोविनि- योगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः