मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३६, ऋक् २

संहिता

अनु॒ प्र ये॑जे॒ जन॒ ओजो॑ अस्य स॒त्रा द॑धिरे॒ अनु॑ वी॒र्या॑य ।
स्यू॒म॒गृभे॒ दुध॒येऽर्व॑ते च॒ क्रतुं॑ वृञ्ज॒न्त्यपि॑ वृत्र॒हत्ये॑ ॥

पदपाठः

अनु॑ । प्र । ये॒जे॒ । जनः॑ । ओजः॑ । अ॒स्य॒ । स॒त्रा । द॒धि॒रे॒ । अनु॑ । वी॒र्या॑य ।
स्यू॒म॒ऽगृभे॑ । दुध॑ये । अर्व॑ते । च॒ । क्रतु॑म् । वृ॒ञ्ज॒न्ति॒ । अपि॑ । वृ॒त्र॒ऽहत्ये॑ ॥

सायणभाष्यम्

अस्येन्द्रस्य ओजोबलं जनोयजमानः अनुप्रयेजे सन्ततंप्रकर्षेणयजतेपूजयति अपिच तमिन्द्रं वीर्याय वीरकर्मकर्तुं सत्रा सत्यं अनुदधिरे पुरोदधिरे यजमानाः यद्वा सत्रा महान्तमिन्द्रमितियोज्यं अपिच स्यूमगृभे स्यूम्नः स्यूतान् अविच्छेदेनवर्तमानान् शत्रून् गृह्णते दुधये दु- धिर्हिसाकर्मा तेषांहिंसकाय अर्वते शत्रूणामभिगंत्रेच तस्माइन्द्राय क्रतुं कर्मपरिचरणात्मकं वृंजन्ति निष्पादयन्ति किमर्थं वृत्रहत्ये वृत्रस्यवारकस्यशत्रोर्हनननिमित्तम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः