मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३८, ऋक् १

संहिता

अपा॑दि॒त उदु॑ नश्चि॒त्रत॑मो म॒हीं भ॑र्षद्द्यु॒मती॒मिन्द्र॑हूतिम् ।
पन्य॑सीं धी॒तिं दैव्य॑स्य॒ याम॒ञ्जन॑स्य रा॒तिं व॑नते सु॒दानु॑ः ॥

पदपाठः

अपा॑त् । इ॒तः । उत् । ऊं॒ इति॑ । नः॒ । चि॒त्रऽत॑मः । म॒हीम् । भ॒र्ष॒त् । द्यु॒ऽमती॑म् । इन्द्र॑ऽहूतिम् ।
पन्य॑सीम् । धी॒तिम् । दैव्य॑स्य । याम॑न् । जन॑स्य । रा॒तिम् । व॒न॒ते॒ । सु॒ऽदानुः॑ ॥

सायणभाष्यम्

चित्रतमश्चायनीयतमःआश्चर्यतमोवासइन्द्रः नोस्मदीयात् इतः अस्मात् ग्रहचमसादेःअपात् सोमं पिबतु यद्वा इतोस्माच्छत्रोःनोस्मा- नपात् पातु रक्षतु उदुइत्येतौपूरणौ तथा महीं मह तीं द्युमतीं दीप्तिमतीं इन्द्रहूतिं भर्षत् सइन्द्रोबिभर्तु धारयतु दैव्यस्य देवसंबन्धिनोज- नस्य यामन् यामनि यज्ञेकियमाणां पन्यसीं स्तुत्यतमांधीतिं परिचरणरूपांक्रियां रातिं दातव्यहविश्च सुदानुः शोभनदानइन्द्र्घः वनेतु संभजतु ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०